|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.72. अध्यायः 072
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरंप्रति भीष्मेण ब्राह्मणस्य श्रैष्ठयोपपादनपूर्वकं चातुर्वर्ण्यधर्मकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-72-0x(5506)(67644)
`कीदृशो ब्राह्मणो राजा कार्याकार्यविचारणे।
क्षमः कर्तुं समर्थो वा तन्मे ब्रूहि पितामह॥' 12-72-1(67645)
भीष्म उवाच। 12-72-2x(5507)
य एव तु सतो रक्षेदसतश्च निवर्तयेत्।
स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः॥ 12-72-2(67646)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पुरूरवस ऐलस्य संवादं मातरिश्वना॥ 12-72-3(67647)
पुरूरवा उवाच। 12-72-4x(5508)
कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः।
कस्माच्च भवति श्रेयांस्तन्मे व्याख्यातुमर्हसि॥ 12-72-4(67648)
मातरिश्वोवाच। 12-72-5x(5509)
ब्राह्मणो मुखतः सृष्टो ब्रह्मणो राजसत्तम।
बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य एव च॥ 12-72-5(67649)
वर्णानां परिचर्यार्यं त्रयाणां भरतर्षभ।
वर्णश्चतुर्थः पश्चात्तु पभ्द्यां शूद्रो विनिर्मितः॥ 12-72-6(67650)
ब्राह्मणो जायमानो हि पृथिव्यामनुजायते।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये॥ 12-72-7(67651)
`सर्वस्वं ब्राह्मणस्येदं यत्किंचिदिह दृश्यते।
धर्मयुक्तं प्रशस्तं च जगत्यस्मिन्नृपात्मज॥' 12-72-8(67652)
ततः पृथिव्या यन्तारं क्षत्रियं दण्डधारणे।
द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये॥ 12-72-9(67653)
वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान्।
शूद्रो ह्येतान्परिचरेदिति ब्रह्मानुशासनम्॥ 12-72-10(67654)
ऐल उवाच। 12-72-11x(5510)
द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत्।
धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे॥ 12-72-11(67655)
वायुरुवाच। 12-72-12x(5511)
विप्रस्य सर्वमेवैतद्यत्किंचिज्जगतीगतम्।
`धनं धान्यं हिरण्यं च स्त्रियो रत्नानि वाहनम्॥ 12-72-12(67656)
मङ्गलं च प्रशस्तं च यच्चान्यदपि विद्यते। '
ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः॥ 12-72-13(67657)
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च।
गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः॥ 12-72-14(67658)
पत्यभावे यथैव स्त्री देवरं कुरुते पतिम्।
`आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम्।'
एष ते प्रथमः कल्प आपद्यन्यो भवेदतः॥ 12-72-15(67659)
यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि।
यत्किंचिज्जयसे भूमिं ब्राह्मणाय निवेदय॥ 12-72-16(67660)
श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने।
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत्॥ 12-72-17(67661)
यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया।
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवान्॥ 12-72-18(67662)
श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम्।
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम्॥ 12-72-19(67663)
शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः।
तावता सत्कृतः प्राज्ञश्चिरं यशसि तिष्ठति॥ 12-72-20(67664)
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः।
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः॥ 12-72-21(67665)
`ब्राह्मणं च सविद्वांसं राजशास्त्रविपश्चितम्।'
सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः॥ 12-72-22(67666)
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः।
चतुर्थं तस्य धर्मस्य राजा भागं तु विन्दति॥ 12-72-23(67667)
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः।
यज्ञमेवोपजीवन्ति नास्ति यष्टा ह्यराजके॥ 12-72-24(67668)
इतो दत्तेन जीवन्ति देवताः पितरस्तथा।
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः॥ 12-72-25(67669)
छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति।
अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति।
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः॥ 12-72-26(67670)
तेषु भोगेषु सर्वेषु न भीतो लभते सुखम्।
अभयस्य हि यो दाता तस्यैव सुमहत्फलम्॥ 12-72-27(67671)
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते।
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च।
राजा बिभर्ति भूतानि राज्ञा सर्वमिदं धृतम्॥ ॥ 12-72-28(67672)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विसप्ततितमोऽध्यायः॥ 72॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-72-2 निवर्तयेद्राज्याद्दूरीकारयेत्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|